|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.87. अध्यायः 087
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेन बलरामादिभिः सह युधिष्ठिराश्वमेधाय हास्तिनपुरंप्रत्यागमनम्॥ 1 ॥ तथा युधिष्ठिरंप्रति नानादेशेभ्य आगमिष्यतां राज्ञामप्रमादेन यथोचितपूजाया मणलूरादागमिष्यतो बभ्रुवाहनस्य संमाननस्य च कर्तव्यताप्रतिपादकार्जुनसंदेशनिवेदनम्॥ 2 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान्।
दृष्ट्वा युधिष्ठिरो राजा भीमसेनमभाषत॥ 14-87-1(94935)
उपयाता नरव्याघ्रा य एते पृथिवीश्वराः।
एतेषां क्रियतां पूजा पूजार्हा हि नराधिपाः॥ 14-87-2(94936)
इत्युक्तः स तथा चक्रे नरेन्द्रेण यशस्विना।
भीमसेनो महातेजा यमाभ्यां सह पाण्डवः॥ 14-87-3(94937)
अथाभ्यगच्छद्गोविन्दो वृष्णिभिः सह धर्मजम्।
बलदेवं पुरस्कृत्य सर्वप्राणभूतां वरः॥ 14-87-4(94938)
युयुधानेन सहितः प्रद्युम्नेन गदेन च।
निशठेनाथ सांबेन तथैव कृतवर्मणा॥ 14-87-5(94939)
तेषामपि परां पूजां चक्रे भीमो महारथः।
विविशुस्ते च वेश्मानि रत्नवन्ति च सर्वशः॥ 14-87-6(94940)
युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः।
अर्जुनं कथयामास बहुसङ्ग्रामकर्शितम्॥ 14-87-7(94941)
स तं प्रपच्छ कौन्तेयः पुनःपुनररिंदमम्।
धर्मजः शक्रजं जिष्णुं समाचष्ट जगत्पतिः॥ 14-87-8(94942)
आगमद्द्वारकावासी समाप्तः पुरुषो नृप।
योऽद्राक्षीत्पाण्डवश्रेष्ठ बहुसङ्ग्रामकर्शितम्॥ 14-87-9(94943)
समीपे च महाबाहुमाचष्ट च मम प्रभो।
कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये॥ 14-87-10(94944)
इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः।
दिष्ट्या स कुशली जिष्णुरुपायाति च माधव॥ 14-87-11(94945)
यदिदं संदिदेशास्मिन्पाण्डवानां बलाग्रणीः।
तदाख्यातमिहेच्छामि भवता यदुनन्दन॥ 14-87-12(94946)
इत्युक्तो धर्मराजेन वृष्ण्यन्धकपतिस्तदा।
प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम्॥ 14-87-13(94947)
इदमाह महाराज पार्थवाक्यं नरेश्वरः।
वाच्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम॥ 14-87-14(94948)
आगमिष्यन्ति राजानः सर्वे वै कौरवर्षभ।
प्राप्तानां महतां पूजा कार्या ह्येतत्क्षमं हि नः॥ 14-87-15(94949)
इत्येतद्वचनाद्राजा विज्ञाप्यो मम मानद।
तथा चात्ययिकं न स्याद्यदर्घाहरणेऽभवत्॥ 14-87-16(94950)
कर्तुमर्हति तद्राजा भवांश्चाप्यनुमन्यताम्।
राजद्वेषान्न नश्येयुरिमा राजन्पुनः प्रजाः॥ 14-87-17(94951)
इदमन्यच्च कौन्तेय वचः स पुरुषोऽब्रवीत्।
धनंजयस्य नृपते तन्मे निगदतः शृणु॥ 14-87-18(94952)
उपयास्यति यज्ञं नो मणलूरपतिर्नृपः।
पुत्रो मम महातेजा दयितो बभ्रुवाहनः॥ 14-87-19(94953)
तं भवान्मदपेक्षार्थं विधिवत्प्रतिपूजयेत्।
स तु भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो॥ 14-87-20(94954)
इत्येतद्वचनं श्रुत्वा धर्मराजो युधिष्ठिरः।
अभिनन्द्यास्य तद्वाक्यमिदं वचनमब्रवीत्॥ ॥ 14-87-21(94955)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्ताशीतितमोऽध्यायः॥ 87 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-87-7 भोजराजन्यानां वर्धनः॥ 7-87-8 जानुनोरधस्थः पश्चाद्भागीयो मांसलः प्रदेशः पिण्डिका। ते उभे अस्याधिके स्वदेशादधोभागपर्यन्तं बहुलमालम्बमाने॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|